Skip to playerSkip to main contentSkip to footer
  • 2 days ago
Jagannath Saptakam | जगन्नाथ सप्तकम् | रोग,दुःख,कष्ट निवारण, मनोवांछित फल प्राप्ति हेतु नित्य सुनें @Mere Krishna

श्रीजगन्नाथसप्तकम्

प्रकाशकान्तचिन्मयं प्रसन्नदारुविग्रहं
प्रफुल्लफुल्लसुन्दरं पुरीप्रमोदमन्दिरम् ।
विषाणुसङ्घशोषिणं विशालवैद्यघोषिनं
सहास्यगोललोचनं महाप्रभुं भजाम्यहम् ॥ १॥

परम्पराविमण्डितं तटे वटे मठे रतं
महाप्रसादमज्जितं महानुभावसज्जितम् ।
सुवर्णकीर्णनिर्जितं समन्दमन्दहासितं
पहण्डिनृत्यपण्डितं जगद्गुरुं भजाम्यहम् ॥ २॥

त्रितापपापनाशकं त्रिधातुदोषघातकं
सुपञ्चभूतशोधकं विषाणुवेगरोधकम् ।
नितान्तशान्तिदायकं महार्तिनाशकारकं
सदा जगत्सुरक्षकं महाप्रभुं भजाम्यहम् ॥ ३॥

रथे कदापि सत्वरं विचित्रवीर्य्यमीश्वरं
मुखारविन्दसिन्दूरं सगद्गदं सुधासरम् ।
महापुराणसत्करं महेश्वरीपुरःसरं
सघोषहर्षतत्परं सदाशिवं भजाम्यहम् ॥ ४॥

निवासनीलपर्वतं प्रफुल्लपीतसत्पटं
समस्तवैष्णवाश्रितं समुद्रकूलनिर्जितम् ।
नितान्तशान्तचिद्घनं घनाघनप्रभायुतं
नियन्तृरोगभौतिकं भिषग्वरं भजाम्यहम् ॥ ५॥

ग्रहेशदर्पहारिणं खगेशयानचारिणं
नृशंस-कंसमर्दनं समस्तगोपशासनम् ।
सरागराधिकाधवं कृपालुनीलमाधवं
नवीनयौवनोज्वलं भजे निचोलमुज्ज्वलम् ॥ ६॥

नियोगभोगभक्षणं वियोगवेगमर्षणं
सुपुष्पहारधारिणं चराचरस्य पारिणम् ।
समन्त्रतन्त्रनायकं प्रवीणवेणुवादकं
विषाणुमुक्तिदायकं भजे सुखप्रदायकम् ॥ ७॥

इति प्रदीप्तनन्दशर्मविरचितं श्रीजगन्नाथसप्तकं सम्पूर्णम् ।

Category

📚
Learning

Recommended